(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.111. अध्यायः 111
Mahabharata - Udyoga Parva - Chapter Topics
गरुडेन गालवंप्रति उत्तरदिगनुवर्णनपूर्वकं अभिमतदिगभिगमनाय स्वपृष्ठाधिरोहणविधानम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text

सपर्ण उवाच। 5-111-0x(3717)(35627)
यस्मादुत्तार्यते पापाद्यस्मान्निश्रेयसोऽश्रुते ।
अस्मादुत्तारणबलादुत्तरेत्युच्यते द्विज ॥ 1 ॥ 5-111-1(35628)
उत्तरस्य हिरण्यस्य परिवापस्य गालव ।
मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः ॥ 5-111-2(35629)
अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ ।
नासौम्यो नाविधेयात्मा नाधर्मो वसते जनः ॥ 5-111-3(35630)
अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः ।
बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः ॥ 5-111-4(35631)
अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः।
`प्रकृत्या पुरुषः सार्धं युगान्ताग्निसमप्रभः ॥ 5-111-5(35632)
न स दृश्यो मुनिगणैस्तथा देवैः सवासवैः ।
गन्धर्वयक्षसिद्धैर्वा नरनारायणादृते ॥ 5-111-6(35633)
अत्र विष्णुः सहस्राक्षः सहस्रचरणोऽव्ययः ।
सहस्रशिरसः श्रीमानेकः पश्यति मायया॥' 5-111-7(35634)
अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत ।
अत्र गङ्गां महादेवः पतन्तीं गगनाच्च्युताम् ॥ 5-111-8(35635)
प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम ।
अत्र देव्या तपस्तप्तं महेश्वरपरीप्सया ॥ 5-111-9(35636)
अत्र कामश्च रोषश्च शैलश्चोमा च संबभुः ।
अत्र राक्षसयक्षाणां गन्धर्वाणां च गालव ॥ 5-111-10(35637)
आधिपत्येन कैलासे धनदोऽप्यभिषेचितः।
अत्र चैत्ररथं रम्यमत्र वैखानसाश्रमः ॥ 5-111-11(35638)
अत्र मन्दाकिनी चैव मन्दरश्च द्विजर्षभ ।
अत्र सौगन्धिकवनं नैर्ऋतैरभिरक्ष्यते॥ 5-111-12(35639)
शाद्वलं कदलीस्कन्धमत्र सन्तानका नगाः।
अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम् ॥ 5-111-13(35640)
विमानान्युनुरूपाणि कामभोग्यानि गालव ।
अत्र ते ऋषयः सप्त देवी चारुन्धती तथा ॥ 5-111-14(35641)
अत्र तिष्ठति वै रात्रिन्दिवाप्यत्रावतिष्ठते।
अत्र यज्ञं समासाद्य ध्रुवं स्थाता पितामहः ॥ 5-111-15(35642)
ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः ।
अत्र गङ्गामहाद्वारं रक्षन्ति द्विजसत्तम ॥ 5-111-16(35643)
धामा नाम महात्मानो मुनयः सत्यवादिनः ।
न तेषां ज्ञायते मूर्तिर्नाकृतिर्न तपश्चितम् ॥ 5-111-17(35644)
परिवर्तसहस्रामि कामभोज्याननि गालव ।
यथायथा प्रविशति तस्मात्परतरं नरः । 5-111-18(35645)
तथातथा द्विजश्रेष्ठ प्रविलीयति गालव ।
नैतत्केनचिदन्येन गतपूर्वं द्विजर्षभ ॥ 5-111-19(35646)
ऋते नारायणं देवं नरं वा जिष्णुमव्ययम् ।
अत्र कैलासमित्युक्तं स्थानमैलविलस्य तत् ॥ 5-111-20(35647)
अत्र विद्युत्प्रभा नाम जझिरेऽप्सरसो दश।
अत्र विष्णुपदं नाम क्रमता विष्णुना कृतम् ॥ 5-111-21(35648)
त्रिलोकविक्रमे ब्रह्मन्नुत्तरां दिशमाश्रितम् ।
अत्र राज्ञा मरुतेन यज्ञेनेष्टं द्विजोत्तम॥ 5-111-22(35649)
उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः।
जीमूतस्यात्र विप्रर्षेरुपतस्थे महात्मनः ॥ 5-111-23(35650)
साक्षाद्धैमवतः पुण्यो विमलः कनकाकरः ।
ब्राह्मणेषु च यत्कृत्स्नं स्वन्तं कृत्वा धनं महत् ॥ 5-111-24(35651)
वव्रे धनं महर्षिः स जैमूतं तद्धनं ततः।
अत्र नित्यं दिशांपालाः सायंप्रातर्द्विजर्षभ ॥ 5-111-25(35652)
कस्य कार्यं किमिति वै परिक्रोशान्ति गालव ।
एवमेषा द्विजश्रेष्ठ गुणैरन्यैर्दिगुत्तरा ॥ 5-111-26(35653)
उत्तरेति परिख्याता सर्वकर्मस्तु चोत्तरा ।
एता विस्तरशस्तात तव शङ्गीर्तिता दिशः ॥ 5-111-27(35654)
चतस्रः क्रमयोगेन कामाशां गन्तुमिच्छसि।
उद्यतोऽहं द्विजश्रेष्ठ तव दर्शयितुं दिशः।
पृथिवीं चाखिलां ब्रह्मंस्तस्मादारोह मां द्विज ॥ ॥ 5-111-28(35655)

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकादशाधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-111-1 यस्मादिति। उत्तरेण पथा गतानां हि पापनाशः स्वर्गप्राप्तेश्च भवतीति योगाद्दुत्तरा उत्कृष्टतरा इयं दिगित्यर्थः ॥ 5-111-2 परिवापस्य स्थानस्य। दिग्न्भ्यामुपलक्षितः ॥ 5-111-3 अविधेयात्मा अजितचित्तः ॥ 5-111-5 प्रकृत्या पुरुषस्सार्धं इत्यारभ्य एकः पश्यति मायया इति पर्यन्तिं सार्धश्लोकद्वयं दाक्षिणात्येषु बहुषु कोशेषु न दृश्यते । झo पुस्तक एव वर्तते । प्रकृत्या उभया ॥ 5-111-7 सहस्रशिरस इत्यकारन्तः शब्दः ॥ 5-111-17 मूर्तिः पिण्डः । आकृतिः संस्थानविशेषः ॥ 5-111-18 परिवर्तस्रहस्राणि चतुर्युगसहस्राणि । तस्मात् हिमस्थानात् ॥ 5-111-19 प्रविलीयति हिमेन नश्यति ॥ 5-111-20 ऐलविलस्य कुबेरस्य ॥ 5-111-23 उशीरबीजे स्थाने ॥ 5-111-24 कनकाकरः जीमूतस्य उप समीपे तस्थे प्रकाशं गतः। प्रकाशनस्थेयाख्ययोश्चेति तङ् ॥ 5-111-25 वव्रे ब्राह्मणेभ्यः । मन्नामकमेतदस्त्विति ॥ 5-111-26 उत्तरा उत्कृष्टतरा ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.